|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.171. अध्यायः 171
(अथ बकवधपर्व ॥ 10 ॥)
Mahabharata - Adi Parva - Chapter Topics
एकचक्रायां भिक्षामटतः पाण्डवान्दृष्ट्वा पौराणां वितर्कः॥ 1 ॥ कुम्भकाराद्भीमस्य महत्तरपात्रलाभः॥ 2 ॥ सभार्यस्य तद्गृहस्वामिनो ब्राह्मणस्य क्रन्दितं श्रुतवत्याः कुन्त्याः भीमानुमत्या ब्राह्मणान्तर्गृहप्रवेशः॥ 3 ॥ ब्राह्मणप्रलापः॥ 4 ॥
Mahabharata - Adi Parva - Chapter Text
जनमेजय उवाच। 1-171-0x(1000)(7758)
एकचक्रां गतास्ते तु कुन्तीपुत्रा महारथाः।
अत ऊर्ध्वं द्विजश्रेष्ठ किमकुर्वत पाण्डवाः॥ 1-171-1(7759)
वैशम्पायन उवाच। 1-171-2x(1001)
एकचक्रां गतास्ते तु कन्तीपुत्रा महारथाः।
ऊषुर्नातिचिरं कालं ब्राह्मणस्य निवेशने॥ 1-171-2(7760)
रमणीयानि पश्यन्तो वनानि विविधानि च।
पार्थिवानपि चोद्देशान्सरितश्च सरांसि च॥ 1-171-3(7761)
चेरुर्भैश्रं तदा ते तु सर्व एव विशांपते।
`युधिष्ठिरं च कुन्तीं च चिन्तयन्त उपासते॥ 1-171-4(7762)
भैक्षं चरन्तस्तु तदा जटिला ब्रह्मचारिणः।
बभूवुर्नागराणां च गुणैः संप्रियदर्शनाः॥ 1-171-5(7763)
नागरा ऊचुः। 1-171-6x(1002)
दर्शनीया द्विजाः शुभ्रा देवगर्भोपमाः शुभाः।
भैक्षानर्हाश्च राज्यार्हाः सुकुमारास्तपस्विनः॥ 1-171-6(7764)
नैते यथार्थतो विप्राः सुकुमारास्तपस्विनः।
चरन्ति भूमौ प्रच्छन्नाः कस्माच्चित्कारणादिह॥ 1-171-7(7765)
सर्वलक्षणसंपन्ना भैक्षं नार्हन्ति नित्यशः।
कार्यार्थिनश्चरन्तीति तर्कयन्त इति ब्रुवन्॥ 1-171-8(7766)
बन्धूनामागमान्नित्यमुपचारैस्तु नागराः।
भाजनानि च पूर्णानि भक्ष्यभोज्यैरकारयन्॥ 1-171-9(7767)
मौनव्रतेन संयुक्ता भैश्रं गृह्णन्ति पाण्डवाः।
माता चिरगतान्ज्ञात्वा शोचन्ती पाण्डवान्प्रति॥ 1-171-10(7768)
दुःखाश्रुपूर्णनयना लिखन्त्यास्ते महीतलम्।
भिक्षित्वा द्विजगेहेषु चिन्तयन्तश्च मातरम्॥ 1-171-11(7769)
त्वरमाणा निवर्तन्ते मातृगौरवयन्त्रिताः।
मात्रे निवेदयन्ति स्म कुन्त्यै भैक्षं दिवानिशम्॥ 1-171-12(7770)
सर्वं संपूर्णभैक्षान्नं मातृदत्तं पृथक्पृथक्।
विभज्याभुञ्जतेष्टं ते यथाभागं पृथक्पृथक्॥ 1-171-13(7771)
अर्धं स्म भुञ्जते पञ्च सह मात्रा परन्तपाः।
अर्धं सर्वस्य भैक्षस्य भीमो भुङ्क्ते महाबलः॥ 1-171-14(7772)
स नाशितश्च भवति कल्याणान्नभुजिः पुरा।
स वैवर्ण्यं च कार्श्यं च जगामातृप्तिकारितम्॥ 1-171-15(7773)
आज्यबिन्दुर्यथा वह्नौ महति ज्वलिते भवेत्।
तथार्धभागं भीमस्य भिक्षान्नस्य नरोत्तम॥ 1-171-16(7774)
तथैव वसतां तत्र तेषां राजन्महात्मनाम्।
अतिचक्राम सुमहान्कालोऽथ भरतर्षभ॥ 1-171-17(7775)
भीमोऽपि क्रीडयित्वाथ मिथो ब्राह्मणबन्धुषु।
कुम्भकारेण संबन्धाल्लेभे पात्रं महत्तरम्॥ 1-171-18(7776)
कुम्भकारोऽददात्पात्रं महत्कृत्वातिमात्रकम्।
प्रहसन्भीमसेनाय विस्मितस्तस्य कर्मणा॥ 1-171-19(7777)
तस्याद्भुतं कर्म कुर्वन्मृद्भारं महदाददे।
मृद्भारैः शतसाहस्रैः कुम्भकारमतोषयत्॥ 1-171-20(7778)
चक्रे चक्रे च मृद्भाण्डान्सततं भैक्षमाचरन्।
तदादायागतं दृष्ट्वा हसन्ति प्रहसन्ति च॥ 1-171-21(7779)
भक्ष्यभोज्यानि विविधान्यादाय प्रक्षिपन्ति च।
एवमेव सदा भुक्त्वा मात्रे वदति वै रहः।
न चाशितोऽस्मि भवति कल्याणान्नभृतः पुरा॥' 1-171-22(7780)
ततः कदाचिद्भैक्षाय गतास्ते पुरषर्षभाः।
संगत्य भीमसेनस्तु तत्रास्ते पृथया सह॥ 1-171-23(7781)
अथार्तिजं महाशब्दं ब्राह्मणस्य निवेशने।
भृशमुत्पतितं घोरं कुन्ती शुश्राव भारत॥ 1-171-24(7782)
रोरुयमाणांस्तान्दृष्ट्वा परिदेवयतश्च सा।
कारुण्यात्साधुभावाच्च कुन्ती राजन्न चक्षमे॥ 1-171-25(7783)
मथ्यमानेव दुःखेन हृदयेन पृथा तदा।
उवाच भीमं कल्याणी कृपान्वितमिदं वचः॥ 1-171-26(7784)
वसामः सुसुखं पुत्र ब्राह्मणस्य निवेशने।
अज्ञाता धार्तराष्ट्रस्य सत्कृतां वीतमन्यवः॥ 1-171-27(7785)
सा चिन्तये सदा पुत्र ब्राह्मणस्यास्य किं न्वहम्॥
कदा प्रियं करिष्यामि यत्कुर्युरुषिताः सुखम्॥ 1-171-28(7786)
एतावान्पुरुषस्तात कृतं यस्मिन्न नश्यति।
यावच्च कुर्यादन्योऽस्य कुर्यादभ्यधिकं ततः॥ 1-171-29(7787)
तदिदं ब्राह्मणस्यास्य दुःखमापतितं ध्रुवम्।
न तत्र यदि साहाय्यं कुर्याम सुकृतं भवेत्॥ 1-171-30(7788)
भीमसेन उवाच। 1-171-31x(1003)
ज्ञायतामस्य यद्दुःखं यतश्चैव समुत्थितम्।
विदित्वा व्यवसिष्यामि यद्यपि स्यात्सुदुष्करम्॥ 1-171-31(7789)
वैशम्पायन उवाच। 1-171-32x(1004)
एवं तौ कथयन्तौ च भूयः सुश्रुवतुः स्वनम्।
आर्तिजं तस्य विप्रस्य सभार्यस्य विशांपते॥ 1-171-32(7790)
अन्तःपुरं ततस्तस्य ब्राह्मणस्य महात्मनः।
विवेश त्वरिता कुन्ती बद्धवत्सेव सौरभी॥ 1-171-33(7791)
ततस्तं ब्राह्मणं तत्र भार्यया च सुतेन च।
दुहित्रा चैव सहितं ददर्श विकृताननम्॥ 1-171-34(7792)
ब्राह्मण उवाच। 1-171-35x(1005)
धिगिदं जीवितं लोके गतसारमनर्थकम्।
दुःखमूलं पराधीनं भृशमप्रियभागि च॥ 1-171-35(7793)
जीविते परमं दुःखं जीविते परमो ज्वरः।
जीविते वर्तमानस्य द्वन्द्वानामागमो ध्रुवः॥ 1-171-36(7794)
आत्मा ह्येको हि धर्मार्थौ कामं चैव निषेवते।
एतैश्च विप्रयोगोऽपि दुःखं परमनन्तकम्॥ 1-171-37(7795)
आहुः केचित्परं मोक्षं स च नास्ति कथंचन।
अर्थप्राप्तौ तु नरकः कृत्स्न एवोपपद्यते॥ 1-171-38(7796)
अर्थेप्सुता परं दुःखमर्थप्राप्तौ ततोऽधिकम्।
जातस्नेहस्य चार्थेषु विप्रयोगे महत्तरम्॥ 1-171-39(7797)
`यावन्तो यस्य संयोगा द्रव्यैरिष्टैर्भवन्त्युत।
तावन्तोऽस्य निख्यन्ते हृदये शोकशङ्कवः॥ 1-171-40(7798)
तदिदं जीवितं प्राप्य अल्पकालं महाभयम्।
त्यागो हि न मया प्राप्तो भार्यया सहितेन च॥' 1-171-41(7799)
न हि योगं प्रपश्यामि येन मुच्येयमापदः।
पुत्रदारेण वा सार्धं प्राद्रवेयमनामयम्॥ 1-171-42(7800)
यतितं वै मया पूर्वं वेत्थ ब्राह्मणि तत्तथा।
क्षेमं यतस्ततो गन्तुं त्वया तु मम न श्रुतम्॥ 1-171-43(7801)
इह जाता विवृद्धाऽस्मि पिता माता ममेति वै।
उक्तवत्यसि दुर्मेधे याच्यमाना मयाऽसकृत्॥ 1-171-44(7802)
स्वर्गतोऽपि पिता वृद्धस्तथा माता चिरं तव।
बन्धवा भूतपूर्वाश्च तत्र वासे तु का रतिः॥ 1-171-45(7803)
`न भोजनं विरुद्धं स्यान्न स्त्रीदेशो निबन्धनः।
सुदूरमपि तं देशं व्रजेद्गरुडहंसवत्॥' 1-171-46(7804)
सोऽयं ते बन्धुकामाया अशृण्वन्त्या वचो मम।
बन्धुप्रणाशः संप्राप्तो भृशं दुःखकरो मम॥ 1-171-47(7805)
अथवा मद्विनाशो यं न हि शक्ष्यामि कंचन।
परित्यक्तुमहं बन्धुं स्वयं जीवन्नृशंसवत्॥ 1-171-48(7806)
सहधर्मचरीं दान्तां नित्यं मातृसमां मम।
सखायं विहितां देवैर्नित्यं परमिकां गतिम्॥ 1-171-49(7807)
पित्रा मात्रा च विहितां सदा गार्हस्थ्यभागिनीम्।
वरयित्वा यथान्यायं मन्त्रवत्परिणीय च॥ 1-171-50(7808)
कुलीनां शीलसंपन्नामपत्यजननीमपि।
त्वामहं जीवितस्यार्थे साध्वीमनपकारिणीम्॥ 1-171-51(7809)
परित्यक्तुं न शक्ष्यामि भार्यां नित्यमनुव्रताम्।
कुत एव परित्यक्तुं सुतां शक्ष्याम्यहं स्वयम्॥ 1-171-52(7810)
बालामप्राप्तवयसमजातव्यञ्जनाकृतिम्।
भर्तुरर्थाय निक्षिप्तां न्यासं धात्रा महात्मना॥ 1-171-53(7811)
यया दौहित्रजाँल्लोकानाशंसे पितृभिः सह।
स्वयमुत्पाद्य तां बालां कथमुत्स्रष्टुमुत्सहे॥ 1-171-54(7812)
मन्यन्ते केचिदधिकं स्नेहं पुत्रे पितुर्नराः।
कन्यायां केचिदपरे मम तुल्यावुभौ स्मृतौ॥ 1-171-55(7813)
यस्यां लोकाः प्रसूतिश्च स्थिता नित्यमथो सुखम्।
अपापां तामहं बालां कथमुत्स्रष्टुमुत्सहे॥ 1-171-56(7814)
`कुत एव परित्यक्तुं सुतं शक्ष्याम्यहं स्वयम्।
प्रार्थयेयं परां प्रीतिं यस्मिन्स्वर्गफलानि च॥ 1-171-57(7815)
यस्य जातस्य पितरो मुखं दृष्ट्वा दिवं गताः।
अहं मुक्तः पितृऋणाद्यस्य जातस्य तेजसा॥ 1-171-58(7816)
दयितं मे कथं बालमहं त्यक्तुमिहोत्सहे।
तमहं ज्येष्ठपुत्रं मे कुलनिर्हारकं विभुम्॥ 1-171-59(7817)
मम पिण्डोदकनिधिं कथं त्यक्ष्यामि पुत्रकम्।
त्यागोऽयं मम संप्राप्तो ममन्वा मे सुतस्य वा॥ 1-171-60(7818)
तव वा तव पुत्र्या वा अत्र वासस्य तत्फलम्।
न शृणोषि वचो मह्यं तत्फलं भुङ्क्ष्व भामिनि॥ 1-171-61(7819)
अथवाहं न शक्ष्यामि स्वयं मर्तुं सुतं मम।
एकं त्यक्तुं न शक्नोति भवतीं च सुतामपि॥ 1-171-62(7820)
अथ मद्रक्षणार्थं वा न हि शक्ष्यामि कंचन।
परित्यक्तुमहं बन्धुं स्वयं जीवन्नृशंसवत्॥ 1-171-63(7821)
आत्मानमपि चोत्सृज्य गते प्रेतवशं मयि।'
त्यक्ता ह्येते मया व्यक्तं नेह शक्ष्यन्ति जीवितुम्॥ 1-171-64(7822)
एषां चान्यतमत्यागो नृशंसो गर्हितो बुधैः।
आत्मत्यागे कृते चेमे मरिष्यन्ति मया विना॥ 1-171-65(7823)
स कृच्छ्रामहमापन्नो न शक्तस्तर्तुमापदम्।
अहो धिक्कां गतिं त्वद्य गमिष्यामि सबान्धवः।
सर्वैः सह मृतं श्रेयो न च मे जीवितुं क्षमम्॥ ॥ 1-171-66(7824)
इति श्रीमन्महाभारते आदिपर्वणि बकवचपर्वणि एकसप्तत्यधिकशततमोऽध्यायः॥ 171 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-171-42 योगमुपायम्॥ एकसप्तत्यधिकशततमोऽध्यायः॥ 171 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|